2026-05-06 06:30:22 by ambuda-bot
This page has not been fully proofread.
२७६
-
बृहदारण्यकोपनिषद्भाष्ये
,
[ब्रा. २.
ख्याकाः अक्षितयः, अक्षितिहेतुत्वात् उपतिष्ठन्ते । यद्यपि
मन्त्रकरणे तिष्ठतिरुपपूर्व: आत्मनेपदी भवति, इहापि सप्त
देवताभिधानानि मन्त्र स्थानीयानि करणानि ; तिष्ठते: अत:
अत्रापि आत्मनेपदं न विरुद्धम् । कारता अक्षितय
इत्युच्यन्ते - तत् तत्र या इमा: प्रसिद्धाः, अक्षन् अक्षणि
लोहिन्य: लोहिताः राजय: रेखा:, ताभिः द्वारभूताभि:
एनं मध्यमं प्राणं रुद्र: अन्वायत्तः अनुगतः ; अथ या:
अक्षन् अक्षणि आपः धूमादिसंयोगेनाभिव्यज्यमानाः,
ताभि: अद्भिर्द्वारभूताभिः पर्जन्यो देवतात्मा अन्वायत्त:
अनुगत उपतिष्ठत इत्यर्थः । स च अन्नभूतोऽक्षितिः प्राणस्य,
'पर्जन्ये वर्षत्यानन्दिनः प्राणा भवन्ति' इति श्रुत्यन्तरात् ।
या कनीनका दृक्शक्तिः तया कनीनकया द्वारेण आदित्यो
मध्यमं प्राणमुपतिष्ठते । यत्कृष्णं चक्षुषि, तेन एनमग्नि-
रुपतिष्ठते । यच्छुकं चक्षुषि, तेन इन्द्रः । अधरया वर्तन्या
पक्ष्मणा एनं पृथिवी अन्वायत्ता, अधरत्वसामान्यात् ।
द्यौः उत्तरया, ऊर्ध्वत्वसामान्यात् । एताः सप्त अन्नभूता:
प्राणस्य संततमुपतिष्ठन्ते-- इत्येवं यो वेद, तस्यैतत्फलम् -
नास्यान्नं क्षीयते, य एवं वेद ॥
तदेष श्लोको भवति । अर्वाग्बिलश्च-