2026-05-06 06:30:21 by ambuda-bot
This page has not been fully proofread.
२७४
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. २.
स एष शिशुरिव, विषयेष्वितर करणवद्पटुत्वात्; शिशुं सा-
धानमित्युक्तम् ; किं पुनस्तस्य शिशोः वत्सस्थानीयस्य करणा-
त्मन आधानम् तस्य इदमेव शरीरम् आधानं कार्यात्मकम् -
आधीयतेऽस्मिन्नित्याधानम्; तस्य हि शिशोः प्राणस्य इदं
शरीरमधिष्ठानम् ; अस्मिन्हि करणान्यधिष्ठितानि लब्धा-
त्मकानि उपलब्धिद्वाराणि भवन्ति, न तु प्राणमात्रे विष-
क्तांनि ; तथा हि दर्शितमजातशत्रुणा - उपसंहृतेषु करणेषु वि-
ज्ञानमयो नोपलभ्यते, शरीरदेशव्यूढेषु तु करणेषु विज्ञानमय
उपलभमान उपलभ्यते - तच्च दर्शितं पाणिपेषप्रतिबोधनेन ।
इदं प्रत्याधानं शिरः ; प्रदेशविशेषेषु - प्रति - प्रत्याधीयत
इति प्रत्याधानम् । प्राण: स्थूणा अन्नपानजनिता शक्ति:-
प्राणो बलमिति पर्याय: ; बलावष्टम्भो हि प्राणः अस्मिन्
शरीरे- ' स यत्रायमात्माबल्यं न्येत्य संमोहमिव' इति
दर्शनात् - यथा वत्सः स्थूणावष्टम्भः एवम् । शरीरपक्ष-
पाती वायुः प्राणः स्थूणेति केचित् । अन्नं दाम - अन्नं
हि भुक्तं त्रेधा परिणमते ; यः स्थूलः परिणामः, स एत-
हृयं भूत्वा, इमामप्येति- मूत्रं च पुरीषं च; यो मध्यमो
रसः, स रसो लोहितादिक्रमेण स्वकार्यं शरीरं साप्तधातुक-
मुपचिनोति ; स्वयोन्यन्नागमे हि शरीरमुपचीयते,
अन्नमय-