Proofing

This page has not been fully proofread.

क. १.]
 
द्वितीयोऽध्यायः ।
 
२७३
 
षतो भ्रातृव्यान वरुणद्धि । अयं वाव शि-
शुर्योऽयं मध्यमः प्राणस्तस्येदमेवाधान-
मिदं प्रत्याधानं प्राणः स्थूणान्नं दाम ॥ १ ॥
 
यो ह वै शिशुं साधानं सप्रत्याधानं सस्थूणं सदामं वेद,
तस्येदं फलम् ;
किं तत् ? सप्त सप्तसंख्याकान् ह द्विषत:
द्वेषकर्तॄन् भ्रातृव्यान् भ्रातृव्या हि द्विविधा भवन्ति, द्विष-
न्तः अद्विषन्तश्च - तत्र द्विषन्तो ये भ्रातृव्याः तान् द्विषतो
भ्रातृव्यान् अवरुणद्धि; सप्त ये शीर्षण्या: प्राणा विषयो-
पलब्धिद्वाराणि तत्प्रभवा विषयरागाः, सहजत्वात् भ्रातृव्याः ।
ते हि अस्य स्वात्मस्थां दृष्टिं विषयविषयां कुर्वन्ति ; तेन ते
द्वेष्टारो भ्रातृव्याः प्रत्यगात्मेक्षण प्रतिषेधकरत्वात्; कीठके
चोक्तम् —— 'पराश्चि खानि व्यतृणत्स्वयंभूस्तस्मात्पराप-
श्यति नान्तरात्मन्' इत्यादि ; तत्र यः शिश्वादीन्वेद, तेषां
याथात्म्यमवधारयति, स एतान् भ्रातृव्यान् अवरुणद्धि अपा-
वृणोति विनाशयति । तस्मै फलश्रवणेनाभिमुखीभूतायाह-
अयं वाव शिशुः । कोऽसौ ? योऽयं मध्यमः प्राणः,
शरीरमध्ये यः प्राणो लिङ्गात्मा, यः पञ्चधा शरीरमा -
विष्ट:- बृहन्पाण्डरवास: सोम राजन्नित्युक्तः, यस्मिन्
वाङ्मनःप्रभृतीनि करणानि विषक्तानि -पढीशशङ्कुनिदर्शनात्
 
S. B. U. 18