Proofing

This page has not been fully proofread.

द्वितीयं ब्राह्मणम् ॥
 
'ब्रह्म ज्ञपयिष्यामि' इति प्रस्तुतम् ; तत्र यतो जगज्जा-
तम्, यन्मयम्, यस्मिंश्च लीयते, तदेकं ब्रह्म- इति ज्ञापि -
तम् । किमात्मकं पुनः तज्जगत् जायते, लीयते च ? पञ्च-
भूतात्मकम् ; भूतानि च नामरूपात्मकानि ; नामरूपे सत्य-
मिति ह्युक्तम्; तस्य सत्यस्य पञ्चभूतात्मकस्य सत्यं ब्रह्म ।
कथं पुनः भूतानि सत्यमिति मूर्त मूर्त ब्राह्मणम् । मूर्तमूर्तभूता-
स्मकत्वात् कार्यकरणात्मकानि भूतानि प्राणा अपि सत्यम् ।
तेषां कार्यकरणात्मकानां भूतानां सत्यत्वनिर्दिधारयिषया
ब्राह्मणद्वयमारभ्यते सैव उपनिषव्याख्या । कार्यकरणस-
त्यत्वावधारणद्वारेण हि सत्यस्य सत्यं ब्रह्म अत्रधार्यते
अत्रोक्तम् ' प्राणा वै सत्यं तेषामेष सत्यम्' इति ; तत्र के
प्राणाः कियत्यो वा प्राणविषया उपनिषद: का इति च-
ब्रह्मोपनिषत्प्रसङ्गेन करणानां प्राणानां स्वरूपमवधारयति-
पथिगतकूपारामाद्यवधारणवत् ॥
 
'
 
यो ह वै शिशु‍ साधान‍ सप्रत्या-
 
धान‍ संस्थूण‍ सदामं वेद सप्त ह द्वि-
 
I