2026-05-06 06:30:20 by ambuda-bot
This page has not been fully proofread.
क. २०.]
द्वितीयोऽध्यायः ।
२७१
आगमविरोधः प्रत्युक्तः । यदुक्तम् - ब्रह्मैकत्वे यस्मै उप-
देश:, यस्य च उपदेशग्रहणफलम्, तदभावात् एकत्वोपदे-
शानर्थक्यमिति तदपि न, अनेककारकसाध्यत्वात्क्रि-
याणां कश्चोद्यो भवति ; एकस्मिन्ब्रह्मणि निरुपाधिके नो-
पदेशः, नोपदेष्टा, न च उपदेशग्रहणफलम् ; तस्मादुपनिषदां
च आनर्थक्यमित्येतत् अभ्युपगतमेव ; अथ अनेक कारकवि-
षयानर्थक्यं चोद्यते - न, स्वतोऽभ्युपगमविरोधादात्मवादि-
नाम् । तस्मात् तार्किकचाटभटराजाप्रवेश्यम् अभयं दुर्ग-
मिदम अल्पबुद्धधगम्यं शास्त्रगुरुप्रसादरहितैश्च - 'कस्तं
मदामदं देवं मदन्यो ज्ञातुमर्हति ' 'देवैरत्रापि विचिकित्सितं
' ' नैषा तर्केण मतिरापनेया'-
पुरा' ,,
तिस्मृतिवादेभ्यश्च; ' तदेजति तमैजति तद्दूरे तद्वन्तिके '
इत्यादिविरुद्धधर्मसमवायित्व प्रकाशमन्त्रवर्णेभ्यश्च ; गीतासु
च 'मत्स्थानि सर्वभूतानि ' इत्यादि । तस्मात् परब्रह्मव्य-
तिरेकेण संसारी नाम न अन्यत् वस्त्वन्तरमस्ति । तस्मात्सुष्ट्र-
च्यते 'ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावेत् अहं
ब्रह्मास्मीति 'नान्यदतोऽस्ति
-
द्रष्टृ
वरप्रसादलभ्यत्वश्रु-
नान्यदतोऽस्ति श्रोतृ
इत्यादिश्रुतिशतेभ्यः : । तस्मात् परस्यैव ब्रह्मणः सत्यस्य सत्यं
नाम उपनिषत् परा ॥
इति द्वितीयाध्यायस्य प्रथमं ब्राह्मणम् ॥
"