2026-05-06 06:30:19 by ambuda-bot
This page has not been fully proofread.
२७०
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. १.
शरीरेन्द्रियमनः साधना आत्मानः प्रत्येकं वयमनेके - इत्य-
भ्युपगतं स्यात्; अहो अनुमानकौशलं दर्शितम् अपुच्छ-
शृङ्गैः तार्किकबलीवर्दैः । यो हि आत्मानमेव न जाना-
ति, स कथं मूढः तद्गतं भेदमभेदं वा जानीयात् ;
तत्र किमनुमिनोति ? केन वा लिङ्गेन ? न हि आत्मन:
स्वतो भेदप्रतिपादकं किंचिल्लिङ्गमस्ति, येन लिङ्गेन आत्म-
भेनें साधयेत् यानि लिङ्गानि आत्मभेदसाधनाय नामरू-
पवन्ति उपन्यस्यन्ति, तानि नामरूपगतानि उपाधय एव
आत्मन:- घटकरकापवरक भूछिद्राणीव आकाशस्य ; यदा
आकाशस्य भेदलिङ्गं पश्यति, तदा आत्मनोऽपि भेद-
लिङ्गं लभेत सः ; न ह्यात्मनः परतो विशेषमभ्युपग-
च्छद्भिस्तार्किकशतैरपि भेदलिङ्गमात्मनो दर्शयितुं शक्यते ;
स्वतस्तु दूरादपनीतमेव, अविषयत्वादात्मनः । यद्यत्
पर आत्मधर्मत्वेनाभ्युपगच्छति, तस्य तस्य नाम-
रूपात्मकत्वाभ्युपगमात् नामरूपाभ्यां च आत्मनोऽन्य-
त्वाभ्युपगमात्, ' आकाशो वै नाम नामरूपयोर्निर्वहिता ते
यदन्तरा तद्ब्रह्म' इति श्रुतेः, 'नामरूपे व्याकरवाणि ' इति
उत्पत्तिप्रलयात्मके हि नामरूपे, तद्विलक्षणं च ब्रह्म-
अतः अनुमानस्यैवाविषयत्वात कुतोऽनुमानविरोधः । एतन
च -,
,
-