Proofing

This page has not been fully proofread.

क. २०.]
 
द्वितीयोऽध्यायः ।
 
२६९.
 
कामो यजेत' इत्येवमादिवाक्येभ्यः ग्रामपशुस्वर्गादिकामा:
तत्साधनाद्यनुष्ठातारेश्च भिन्ना अवगम्यन्ते । अत्रोच्यते-
ते तु कुतर्कदूषितान्तः करणा: ब्राह्मणादिवर्णा पशदा: अ-
नुकम्पनीया: आगमार्थविच्छिन्न संप्रदायबुद्धय इति । क-
थम् ? श्रोत्रादिद्वारैः शब्दादिभि: प्रत्यक्षत उपलभ्यमानै:
ब्रह्मण एकत्वं विरुध्यत इति वदन्तो वक्तव्या:- किं श-
दादीनां भेदेन आकाशैकत्वं विरुध्यत इति ; अथ न
विरुध्यते, न तर्हि प्रत्यक्षविरोधः । यच्चोक्तम् - प्रतिशरीरं
शब्दाद्युपलब्धारः धर्माधर्मयोश्च कर्तारः भिन्ना अनुमीयन्ते,
तथा च ब्रह्मैकत्वेऽनुमानविरोध इति ; भिन्ना: कैरनुमीयन्त
इति प्रष्टव्या:; अथ यदि ब्रूयुः - सर्वैरस्माभिरनुमान कुशलै-
रिति के यूयम् अनुमानकुशला इत्येवं पृष्टानां किमुत्तरम् ;
शरीरेन्द्रियमन आत्मसु च प्रत्येकमनुमानकौशलप्रत्याख्याने,
शरीरेन्द्रियमनःसाधना आत्मानो वयमनुमानकुशलाः, अने-
ककारकसाध्यत्वात्क्रियाणामिति चेत् एवं तर्हि अनुमानको
शले भवतामनेकत्वप्रसङ्गः ; अनेककारकसाध्या हि क्रियेति
;
भवद्भिरेवाभ्युपगतम् ; तत्र अनुमानं च क्रिया; सा
शरीरेन्द्रियमनआत्मसाधनैः कारकैः आत्मकर्तृका निर्वर्त्यत
इत्येतत्प्रतिज्ञातम् तत्र वयमनुमानकुशला इत्येवं वदद्भिः-