2026-05-06 06:30:18 by ambuda-bot
This page has not been fully proofread.
२६८
बृहदारण्यकोपनिषद्भाष्ये
[ब्रा. १.
साधनसंबन्धविशेषान् अनेकधा उपदिशति । तत्र पुरुषा:
स्वयमेव यथारुचि साधनविशेषेषु प्रवर्तन्ते; शास्त्रं तु सवि-
तृप्रदीपादिवत् उदास्त एव तथा कस्यचित्परोऽपि पुरुषार्थ :
अपुरुषार्थवदवभासते ; यस्य यथावभासः, स तथारूपं पुरु-
पार्थ पश्यति ; तदनुरूपाणि साधनान्युपादित्सते । तथा
च अर्थवादोऽपि —' त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्म-
चमूषु:' इत्यादिः । तस्मात् न ब्रह्मैकत्वं ज्ञापयिष्यन्तो
वेदान्ता विधिशास्त्रस्य बाधकाः । न च विधिशास्त्रम् एता-
वता निर्विषयं स्यात् । नापि उक्तकारकादिभेदं विधिशा-
खम् उपनिषदां ब्रह्मैकत्वं प्रति प्रामाण्यं निवर्तयति । स्ववि-
शूराणि हि प्रमाणानि, श्रोत्रादिवत् ॥
-
;
तत्त्र पण्डितंमन्याः केचित् स्वचित्तवशात् सर्वे प्रमाण-
मितरेतरविरुद्धं मन्यन्ते, तथा प्रत्यक्षादिविरोधमपि चोद-
यन्ति ब्रह्मैकत्वे - शब्दादयः किल श्रोत्रादिविषया भिन्ना:
प्रत्यक्षत उपलभ्यन्ते ब्रह्मैकत्वं ब्रुवतां प्रत्यक्षविरोध:
स्यात् ; तथा श्रोत्रादिभिः शब्दाद्युपलब्धारः कर्तारश्च धर्मा-
धर्मयोः प्रतिशरीरं भिन्ना अनुमीयन्ते संसारिण:; तत्र
ब्रह्मैकत्वं ब्रुवतामनुमानविरोधश्च ; तथा च आगमविरोधं
वदन्ति - ' ग्रामकामो यजेत' ' पशुकामो यजेत' 'स्वर्ग-