2026-05-06 06:30:19 by ambuda-bot
This page has not been fully proofread.
क. २०.]
"
-
द्वितीयोऽध्यायः ।
1
२६७
न तु कामानां मिथ्याज्ञानप्रभवत्वादनर्थरूपत्वं चेति - न
विदधाति ; तथा नित्या मिहोत्रादिशास्त्रमपि मिथ्याज्ञानप्र-
भवं क्रियाकारकभेदं यथाप्राप्तमेव आदाय इष्टविशेषप्राप्तिम्
अनिष्टविशेषपरिहारं वा किमपि प्रयोजनं पश्यत् अग्निहो-
त्रादीनि कर्माणि विधत्ते, न- अविद्यागोचरासद्वस्तुविषय-
मिति - न प्रवर्तते — यथा काम्येषु । न च पुरुषा न प्रव-
र्तेरन् अविद्यावन्तः, दृष्टत्वात् - यथा कामिनः । विद्यावती -
मेव कर्माधिकार इति चेत्, न, ब्रह्मैकत्वविद्यायां कर्मा-
धिकारविरोधस्योक्तत्वात् । एतेन ब्रह्मैकत्वे निर्विषयत्वात्
उपदेशेन तग्रहणफलाभावदोषपरिहार उक्तो वेदितव्यः ।
पुरुषेच्छा रागादिवैचित्र्याच्च — अनेका हि पुरुषाणामिच्छा ;
रागादयश्च दोषा विचित्रा:
; ततश्च बाह्यविषयरागाद्यपहृत-
चेतसो न शास्त्रं निवर्तयितुं शक्तम् ; नापि स्वभावतो बाह्य-
विषयविरक्तचेतसो विषयेषु प्रवर्तयितुं शक्तम् ; किंतु शास्त्रात्
एतावदेव भवति इदमिष्टसाधनम् इदमनिष्टसाधनमिति
साध्यसाधनसंबन्धविशेषाभिव्यक्ति:- प्रदीपादिवत् तमसि
रूपादिज्ञानम् ; न तु शास्त्रं भृत्यानिव बलात् निवर्तयति
नियोजयति वा; दृश्यन्ते हि पुरुषा रागादिगौरवात् शास्त्र-
मप्यतिक्रामन्तः । तस्मात् पुरुषमतिवैचित्र्यमपेक्ष्य साध्य-