Proofing

This page has not been fully proofread.

२६६
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ ब्रा. १.
 
यच्चोक्तम्-कर्मकाण्डप्रामाण्यविघातकृत् उपनिषद्वाक्य मि-
ति, तन्न, अन्वार्थत्वात् । ब्रह्मैकत्वप्रतिपादनपरा हि उप-
निषदः न इष्टार्थप्राप्तौ साधनोपदेशं तस्मिन्वा पुरुषनियोगं
वारयन्ति, अनेकार्थत्वानुपपत्तेरेव । न च कर्मकाण्डवाक्या-
नां स्वार्थे प्रमा नोत्पद्यते । असाधारणे चेत्खार्थे प्रमाम्
उत्पादयति वाक्यम्, कुतोऽन्येन विरोधः स्यात् । ब्रह्मत्वे
निर्विषयत्वात् प्रमा नोत्पद्यत एवेति चेत्, न, प्रत्यक्षत्वात्प्र-
माया: । ' दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत' ' ब्राह्मणो
न हन्तव्यः' इत्येवमादिवाक्येभ्यः प्रत्यक्षा प्रमा जायमाना ;
सा नैव भविष्यति, यद्युपनिषदो ब्रह्मैकत्वं बोधयिष्यन्तीत्य-
नुमानम् ; न च अनुमानं प्रत्यक्षविरोधे प्रामाण्यं लभते ; त-
स्मादसदेवैतद्गीयते - प्रमैव नोत्पद्यत इति । अपि च यथा-
प्राप्तस्यैव अविद्याप्रत्युपस्थापितस्य क्रियाकारकफलस्य आ-
श्रयणेन इष्टानिष्टप्राप्तिपरिहारोपायसामान्ये प्रवृत्तस्य तद्वि-
शेषमजानत: तदाचक्षाणा श्रुति: क्रियाकारकफलभेदस्य लो-
कप्रसिद्धस्य सत्यताम् असत्यतां वा न आचष्टे न च वार-
यति, इष्टानिष्टफलप्राप्तिपरिहारोपायविधिपरत्वात् । यथा
काम्ग्रेषु प्रवृत्ता श्रुतिः कामानां मिथ्याज्ञानप्रभवत्वे
सत्यपि यथाप्राप्तानेव कामानुपादाय तत्साधनान्येव विधत्ते,