Proofing

This page has not been fully proofread.

क. २०.]
 
द्वितीयोऽध्यायः
 
२६५
 
तदर्थप्रतिपत्तेर्बाधकाभावात् । न हि उपनिषद्भ्यः- ब्रह्मैक-
 
मेवाद्वितीयम्, नैव च - इति
 
प्रतिपत्तिरस्ति — यथा
 
अग्निरुष्णः शीतश्चेत्यम्माद्वाक्यात् विरुद्धार्थद्वयप्रतिपत्तिः ।
अभ्युपगम्य चैतदवोचाम ; न
 
'
 
तु वाक्यप्रामाण्यसमये
एष न्यायः- यदुत एकस्य वाक्यस्य अनेकार्थत्वम् ;
सति च अनेकार्थत्वे, स्वार्थश्च स्यात्,
स्यात् तद्विघातकृच
विरुद्ध: अन्योऽर्थः । न त्वेतत् — वाक्यप्रमाणकानां
विरुद्धमविरुद्धं च, एकं वाक्यम्, अनेकमर्थं प्रतिपादय-
तीत्येष समय: ;
अर्थैकत्वाद्धि एकवाक्यता । न च का-
निचिदुपनिषद्वाक्यानि ब्रह्मैकत्वप्रतिषेधं कुर्वन्ति । यत्तु
लौकिकं वाक्यम्- अग्निरुष्णः शीतश्चेति, न तत्र एक-
वाक्यता, तदेकदेशस्य प्रमाणान्तरविषयानुवादित्वात्; अभिः
शीत इत्येतत् एकं वाक्यम्; अग्निरुष्ण इति तु प्रमाणा-
न्तरानुभवस्मारकम्, न तु स्वयमर्थावबोधकम् ; अतो न
अग्निः शीत इत्यनेन एकवाक्यता, प्रमाणान्तरानुभवस्मा-
रणेनैवोपक्षीणत्वात् । यत्तु विरुद्धार्थप्रतिपादकमिदं वाक्य-
मिति मन्यते, तत् शीतोष्णपदाभ्याम् अग्निपदसामानाधि-
करण्यप्रयोगनिमित्ता भ्रान्तिः ; न त्वेव एकस्य वाक्यस्य अ-
नेकार्थत्वं लौकिकस्य वैदिकस्य वा ॥