2026-05-06 06:30:17 by ambuda-bot
This page has not been fully proofread.
२६४
बृहदारण्यकोपनिषद्भाष्ये
न्यार्थता वास्तु; न त्वेव ब्रह्मैकत्वप्रतिपत्त्यर्थता ॥
-
[ ब्रा. १.
न उक्तोत्तरत्वात् । प्रमाणस्य हि प्रमाणत्वम् अप्रमा-
णत्वं वा प्रमोत्पादनानुत्पादन निमित्तम्, अन्यथा चेत् स्त-
म्भादीनां प्रामाण्यप्रसङ्गात् शब्दादौ प्रमेये । किंचात: ?
यदि तावत् उपनिषदो ब्रह्मैकत्वप्रतिपत्तिप्रमां कुर्वन्ति,
कथमप्रमाणं भवेयुः । न कुर्वन्त्येवेति चेत्- यथा अग्निः
शीतम् - इति, स भवानेवं वदन् वक्तव्य:- उपनिष-
त्प्रामाण्यप्रतिषेधार्थं भवतो वाक्यम् उपनिषत्प्रामाण्यप्रति-
बेधं किं न करोत्येव, अग्निर्वा रूपप्रकाशम् ; अथ करोति-
यदि करोति, भवतु तदा प्रतिषेधार्थं प्रमाणं भवद्वाक्यम,
अग्निश्व रूपप्रकाशको भवेत् ; प्रतिषेधवाक्यप्रामाण्ये भवत्ये-
वोपनिषदां प्रामाण्यम् । अत्रभवन्तो ब्रुवन्तु कः परिहार इति ।
ननु अत्र प्रत्यक्षा मद्वाक्य उपनिषत्प्रामाण्यप्रतिषेधार्थप्रतिपत्तिः
अग्नौ च रूपप्रकाशनप्रतिपत्तिः प्रमा; कस्तर्हि भवत: प्रद्वेष:
ब्रह्मैकत्वप्रत्यये मां प्रत्यक्षं कुर्वतीषु उपनिषत्सु उपलभ्यमा-
नासु ? प्रतिषेधानुपपत्तेः । शोकमोहादिनिवृत्तिश्व प्रत्यक्षं
फलं ब्रह्मैकत्वप्रतिपत्तिपारम्पर्यजनितम् इत्यवोचाम । तस्मा-
दुक्तोत्तरत्वात् उपनिषदं प्रति अप्रामाण्यशङ्का तावन्नास्ति ॥
यच्चोक्तम् स्वार्थविघातकरत्वादप्रामाण्यमिति, तदपि न,