2026-05-06 06:30:17 by ambuda-bot
This page has not been fully proofread.
द्वितीयोऽध्यायः ।
२६३
क. २०.]
प्रामाण्यविरोधपरिहार,येत्येके ; कर्मप्रतिपादकानि हि वा-
क्यानि अनेकक्रियाकारक फलभोक्तृकर्त्राश्रयाणि, विज्ञाना-
त्मभेदाभावे हि असंसारिण एव परमात्मन एकत्वे, कथम्
इष्टफलासु क्रियासु प्रवर्तयेयुः, अनिष्टफलाभ्यो वा क्रियाभ्यो
निवर्तयेयुः ? कस्य वा बद्धस्य मोक्षाय उपनिषदारभ्येत !
अपि च परमात्मैकत्ववादिपक्षे कथं परमात्मैकत्वोपदेशः ? कथं
वा तदुपदेशग्रहणफलम् ? बद्धस्य हि बन्धनाशाय उपदेश: ;
तदभावे उपनिषच्छास्त्रं निर्विषयमेव । एवं तर्हि उपनिषद्वादि-
पक्षस्य कर्मकाण्डवादिपक्षेण चोद्यपरिहारयोः समानः पन्था:-
येन भेदाभावे कर्मकाण्डं निरालम्बनमात्मानं न लभते प्रामा-
ण्यं प्रति, तथा उपनिषदपि । एवं तर्हि यस्य प्रामाण्ये स्वार्थ-
विघातो नास्ति, तस्यैव कर्मकाण्डस्यास्तु प्रामाण्यम्; उप-
निषदां तु प्रामाण्यकल्पनायां स्वार्थविघातो भवेदिति मा
भूत्प्रामाण्यम् । न हि कर्मकाण्डं प्रमाणं सत् अप्रमाणं भ-
वितुमर्हति ; न हि प्रदीपः प्रकाश्यं प्रकाशयति, न प्रकाश-
यति च इति । प्रत्यक्षादिप्रमाणविप्रतिषेधाच्च न केवलमुप-
निषदो ब्रह्मैकत्वं प्रतिपादयन्त्यः स्वार्थविघातं कर्मकाण्डप्रा-
माण्यविघातं च कुर्वन्ति; प्रत्यक्षादिनिश्चित भेदप्रतिपत्त्यर्थ-
प्रमाणैश्च विरुध्यन्ते । तस्मादप्रामाण्यमेव उपनिषदाम् अ-
-