2026-05-06 06:30:15 by ambuda-bot
This page has not been fully proofread.
क. २०.]
द्वितीयोऽध्यायः ।
२६१
क्ष्यत - ' य इह नानेव पश्यति' इति निन्दावचनं च ।
तस्मात् एकरूपैकत्वप्रत्ययदाययैव सर्ववेदान्तेषु उत्पत्ति-
स्थितिलयादिकल्पना, न तत्प्रत्ययकरणाय ।
न च निरवयवस्य परमात्मन: असंसारिणः संसार्येकदे-
शकल्पना न्याय्या, स्वतोऽदेशत्वात् परमात्मन: । अदेशस्य
परस्य एकदेशसंसारित्वकल्पनायां पर एव संसारीति क-
ल्पितं भवेत् । अथ परोपाधिकृत एकदेशः परस्य, घटकर-
काद्याकाशवत् । न तदा तत्र विवेकिनां परमात्मैकदेश:
पृथक्संव्यवहार भागिति बुद्धिरुत्पद्यते । अविवेकिनां विवे-
किनां च उपचरिता बुद्धिर्दृष्टेति चेत्, न, अविवेकिनां
मिथ्याबुद्धित्वात्, विवेकिनां च संव्यवहारमात्रालम्बनार्थ-
त्वात्- - यथा कृष्णो रक्तश्च आकाश इति विवेकिनामपि
कदाचित् कृष्णता रक्तता च आकाशस्य संव्यवहारमात्रा-
लम्बनार्थत्वं प्रतिपद्यत इति, न परमार्थतः कृष्णो रक्तो
वा आकाशो भवितुमर्हति । अतो न पण्डितैर्ब्रह्मस्वरूपप्रति-
पत्तिविषये ब्रह्मणः अंशांश्येकदेशैकदेशिविकारविकारित्वक-
ल्पना कार्या, सर्वकल्पनापनयनार्थसारपरत्वात् सर्वोपनि
षदाम् अतो हित्वा सर्वकल्पनाम् आकाशस्येव नि-
विशेषता प्रतिपत्तव्या- ' आकाशवत्सर्वगतश्च नित्य: '