Proofing

This page has not been fully proofread.

२६०
 
बृहदारण्यकोपनिषद्भाष्ये
 
[ब्रा. १.
 
कथंचिद्व्याध-
 
परमेव
 
धयति - ' न त्वं व्याधः, अमुष्य राज्ञः पुत्रः ;
गृहमनुप्रविष्ट:' इति स एवं बोधितः त्यक्त्वा व्या-
धजातिप्रत्ययकर्माणि पितृपैतामहीम् आत्मनः पदवी-
मनुवर्तते— राजाहमस्मीति । तथा किल अयं परस्मात् अ-
ग्निविस्फुलिङ्गादिवत् तज्जातिरेव विभक्तः इह देहेन्द्रियादि-
गहुने प्रविष्टः असंसारी सन् देहेन्द्रियादिसंसारधर्ममनुव-
र्तते - देहेन्द्रियसंघातोऽस्मि कृशः स्थूलः सुखी दुःखीति-
परमात्मतामजानन्नात्मन: ; न त्वम् एतदात्मकः
ब्रह्मासि असंसारी— इति प्रतिबोधित आचार्येण, हित्वा
एषणात्रयानुवृत्तिं ब्रह्मैवास्मीति प्रतिपद्यते । अब राजपु-
त्रस्यं राजप्रत्ययवत् ब्रह्मप्रत्ययो दृढी भवति - विस्फुलिङ्ग-
वदेव त्वं परस्माद्ब्रह्मणो भ्रष्ट इत्युक्ते, विस्फुलिङ्गस्य प्राग-
शात् अग्न्येकत्वदर्शनात् । तस्मात् एकत्वप्रत्ययदाय
सुवर्णमणिलोहाग्निविस्फुलिङ्गदृष्टान्ता:, न उत्पत्त्यादिभेदप्र-
तिपादनपराः । सैन्धवघनवत् प्रज्ञध्येकरसनैरन्तर्यावधार-
णात् ' एकधैवानुद्रष्टव्यम्' इति च--
-- यदि च ब्रह्मण:
चित्रपटवत् वृक्षसमुद्रादिवच्च उत्पस्याद्यनेकधर्मविचित्रता
विजिग्राह यिषिता, एकरसं सैन्धवघनवदनन्तरमबाह्यम् - इति
नोपसमहरिष्यत्, ' एकधैवानुद्रष्टव्यम्' इति च न प्रायो-