Proofing

This page has not been fully proofread.

क. २०.]
 
द्वितीयोऽध्यायः ।
 
२५९
 
तावत्
 

 
कत्वं प्रतिज्ञाय, दृष्टान्तैर्हेतुभिश्च परमात्मनो विकारांशादि-
त्वं जगतः प्रतिपाद्य, पुनरेकत्वमुपसंहरति ; तद्यथा इहैव
' इदं सर्वे यदयमात्मा' इति प्रतिज्ञाय, उत्पत्तिस्थिति-
यहेतुदृष्टान्तैः विकारविकारित्वाद्येकत्वप्रत्यय हेतून् प्रतिपा
द्य' अनन्तरमबाह्यम्' ' अयमात्मा ब्रह्म' इत्युपसंहरिष्यति ;
तस्मात् उपक्रमोपसंहाराभ्यामयमर्थो निश्चीयते - परमात्म-
कत्वप्रत्ययद्रढिम्ने उत्पत्तिस्थितिलय प्रतिपादकानि वाक्यानीति;
अन्यथा वाक्यभेदप्रसङ्गाश्च -- सर्वोपनिषत्सु हि विज्ञा-
नात्मन: परमात्मना एकत्वप्रत्ययो विधीयत इत्यविप्रति-
पत्तिः सर्वेषामुपनिषद्वादिनाम्; तद्विध्येकवाक्य योगे
 
,
 
संभवति उत्पत्त्यादिवाक्यानां वाक्यान्तरत्वकल्पनायां न
प्रमाणमस्ति ; फलान्तरं च कल्पयितव्यं स्यात; तस्मादु-
त्पत्त्यादिश्रुतय आत्मैकत्वप्रतिपादनपराः ॥
 
अत्र च संप्रदायविद आख्यायिकां संप्रचक्षते कश्चि-
त्किल राजपुत्र: जातमात्र एव मातापितृभ्यामपविद्धः व्या-
गृहे संवर्धित: ; सः अमुष्य वंश्यतामजानन् व्याधजाति-
प्रत्ययः व्याधजातिकर्माण्येवानुवर्तते, न राजास्मीति राज -
जातिकर्माण्यनुवर्तते ; यदा पुनः कश्चित्परमकारुणिकः रा-
जपुत्रस्य राजश्री प्राप्तियोग्यतां जानन् अमुष्य पुत्रतां बो-