2026-05-06 06:30:13 by ambuda-bot
This page has not been fully proofread.
२५८
बृहदारण्यकोपनिषद्भाष्ये
•
[ ब्रा. १.
तर्हि यथाभूतानाम् अज्ञातानां ज्ञापने; किंचात: ? शृणु,
अतो यद्भवति ; यथाभूता मूर्तमूर्तदिपदार्थधर्मां लोके प्र-
सिद्धा: ; तद्दृष्टान्तोपादानेन तदविरोध्येव वस्त्वन्तरं ज्ञाप -
यितुं प्रवृत्तं शास्त्रं न लौकिकवस्तुविरोधज्ञापनाय लौकिक-
मेव दृष्टान्तमुपादत्ते ; उपादीयमानोऽपि दृष्टान्त: अनर्थक:
स्यात्, दाष्टन्तिका संगते; न हि अग्निः शीतः आदित्यो
न तपतीति वा दृष्टान्तशतेनापि प्रतिपादयितुं शक्यम्,
प्रमाणान्तरेण अन्यथाधिगतत्वाद्वस्तुनः ; न च प्रमाणं
प्रमाणान्तरेण विरुध्यते ; प्रमाणान्तराविषयमेव हि प्र-
माणान्तरं ज्ञापयति ; न च लौकिकपदपदार्थाश्रयणव्यति-
रेकेण आगमेन शक्यमज्ञातं वस्त्वन्तरम् अवगमयितुम् ;
तस्मात् प्रसिद्धन्यायमनुसरता न शक्या परमात्मनः
सावयवांशांशित्वकल्पना परमार्थतः प्रतिपादयितुम् । 'क्षुद्रा
विस्फुलिङ्गाः' 'ममैवांश:' इति च श्रूयते स्मर्यते चेत
चेत्, न, एकत्वप्रत्ययार्थपरत्वात्; अग्नेर्हि विस्फुलिङ्गः
अग्निरेव इत्येकत्वप्रत्ययार्हो दृष्टो लोके; तथा च अंश: अं-
शिना एकत्वप्रत्ययार्हः ; तत्रैवं सति विज्ञानात्मनः परमात्म-
विकारांशत्ववाचकाः शब्दाः परमात्मैकत्वप्रत्ययाधित्सवः ।
उपक्रमोपसंहाराभ्यां च सर्वासु हि उपनिषत्सु पूर्वमे-