Proofing

This page has not been fully proofread.

क. २०.]
 
द्वितीयोऽध्यायः ।
 
२५७
 
वस्थस्य एकदेशो विज्ञानात्मा संसारी - तदापि सर्वावयवा -
नुगतत्वात् अवयविन एव अवयवगतो दोषो गुणो वेति,
विज्ञानात्मन: संसारित्वदोषेण पर एव आत्मा संबध्यत
इति, इयमप्यनिष्टा कल्पना । क्षीरवत् सर्वपरिणामपक्षे
सर्वश्रुतिस्मृतिकोप:, स च अनिष्ट: । ' निष्कलं निष्क्रियं
शान्तम् ' ' दिव्यो ह्यमूर्त: पुरुष: सबाह्याभ्यन्तरो ह्यजः '
'आकाशवत्सर्वगतश्च नित्य: ' ' स वा एष महानज आ-
त्माजरोऽमरोऽमृत: ' ' न जायते म्रियते वा कदाचित् ' 'अ-
व्यक्तोऽयम्' इत्यादिश्रुतिस्मृतिन्यायविरुद्धा एते सर्वे पक्षाः ।
अचलस्य परमात्मन एकदेशपक्षे विज्ञानात्मन: कर्मफल-
देशसंसरणानुपपत्तिः, परस्य वा संसारित्वम् — इत्युक्तम् ।
परस्यैकदेश: अग्निविस्फुलिङ्गवत् स्फुटित: विज्ञानात्मा संस-
रतीति चेत् तथापि परस्यावयवस्फुटनेन क्षतप्राप्तिः,
तत्संसरणे च परमात्मनः प्रदेशान्तरावयवव्यूहे छिद्रता-
प्राप्तिः, अव्रणत्ववाक्यविरोधश्च ; आत्मावयवभूतस्य विज्ञा-
नात्मन: संसरणे परमात्मशून्य प्रदेशाभावात् अवयवान्तर-
नोदनव्यूहनाभ्यां हृदयशूलेनेव परमात्मनो दुःखित्वप्राप्तिः ।
अग्निविस्फुलिङ्गादिदृष्टान्तश्रुतेर्न दोष इति चेत्, न; श्रुते-
झपकत्वात् - न शास्त्रं पदार्थानन्यथा कर्तुं प्रवृत्तम्, किं
 
S. B. U. 17