2026-05-06 06:30:12 by ambuda-bot
This page has not been fully proofread.
२५६
बृहदारण्यकोपनिषद्भाष्ये
[बा. १.
ति, स्पष्टं परस्य संसारित्वं प्राप्तम् ; तथा च परस्य असं-
सारित्वप्रतिपादिकाः श्रुतयः कुप्येरन्, स्मृतयश्च सर्वे च
न्याया:; अथ कथंचित् प्राणशरीरसंबन्धजैर्दुःखैर्न संबध्यत
इति शक्यं प्रतिपादयितुम्, परमात्मनः साध्यपरिहार्याभा-
वात् उपदेशानर्थक्यदोषो न शक्यते निवारयितुम् । अत्र
केचित्परिहारमाचक्षते - परमात्मा न सानाद्भूतेष्वनुप्रविष्टः
स्वेन रूपेण ; किं तर्हि विकारभावमापन्नो विज्ञानात्मत्वं प्र-
तिपेदे ; स च विज्ञानात्मा परस्मात् अन्यः अनन्यश्च ; ये-
नान्यः,
तेन संसारित्व संबन्धी, येन अनन्यः तेन अहं
ब्रह्मेत्यवधारणाई: ; एवं सर्वमविरुद्धं भविष्यतीति ॥
-
पृथिवी-
"तंत्र विज्ञानात्मनो विकारपक्ष एता गतयः -
द्रव्यवत् अनेकद्रव्यसमाहारस्य सावयवस्य परमात्मनः,
एकदेशविपरिणामो विज्ञानात्मा घटादिवत् पूर्वसंस्थाना
वस्थस्य वा परस्य एकदेशो विक्रियते केशोषरादिवत्,
सर्व एव वा परः परिणमेत् क्षीरादिवत् । तत्र समानजा
तीयानेकद्रव्यवसमूहस्य कश्चिद्रव्यविशेषो विज्ञानात्मत्वं
प्रतिपद्यते यदा तदा समानजातीयत्वात् एकत्वमुपचरितमेव
न तु परमार्थतः ; तथा च सति सिद्धान्तविरोधः । अथ
नित्यायुतसिद्धावयवानुगतः अवयवी पर आत्मा, तस्य तद्-