2026-05-06 06:30:12 by ambuda-bot
This page has not been fully proofread.
क. २०.]
द्वितीयोऽध्यायः ।
२५५
लोकन्यायैश्च एवमविरोधः स्यात् ॥
-
न मन्त्रब्राह्मणवादेभ्यः तस्यैव प्रवेशश्रवणात् । ' पुरश्चक्रे '
इति प्रकृत्य ' पुर: पुरुष आविशत्' इति, ' रूपं रूपं
प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय ' ' सर्वाणि रूपाणि
वित्रित्य धीरो नामानि कृत्वाभिवदन्यदास्ते' इति सर्व-
शाखासु सहस्रशो मन्त्रवादा: सृष्टिकर्तुरेवासंसारिणः शरी-
प्रवेशं दर्शयन्ति । तथा ब्राह्मणवादा:-
तत्सृष्ट्वा तदेवा-
नुप्राविशत् ' ' स एतमेव सीमानं विदार्यैतया द्वारा प्राप-
द्यत सेयं देवता - इमास्तिस्रो देवता अनेन जीवेन आ-
त्मनानुप्रविश्य ' ' एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते '
इत्याद्याः । सर्वश्रुतिषु च ब्रह्मणि आत्मशब्दप्रयोगात् आत्म-
शब्दस्य च प्रत्यगात्माभिधायकत्वात् 'एष सर्वभूतान्त-
रात्मा' इति च श्रुतेः परमात्मव्यतिरेकेण संसारिणोऽभा-
वात्- 'एकमेवाद्वितीयम्' 'ब्रह्मैवेदम्' 'आत्मैवेदम् '
इत्यादिश्रुतिभ्यः युक्तमेव अहं ब्रह्मास्मीत्यवधारयितुम् ॥
6
यदा एवं स्थितः शास्त्रार्थः, तदा परमात्मनः संसारि-
त्वम् ; तथा च मति शास्त्रानर्थक्यम्, असंसारित्वे च उप-
देशानर्थक्यं स्पष्टो दोष: प्राप्त:; यदि तावत् परमात्मा
सर्वभूतान्तरात्मा सर्वशरीरसंपर्कजनितदुःखानि अनुभवती-