2026-05-06 06:30:11 by ambuda-bot
This page has not been fully proofread.
२५४
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. १.
r
ब्रह्म-
एतं ब्रह्मलोकं न विन्दन्ति ' प्राज्ञेनात्मना संपरिष्वक्त: ' 'प-
र आत्मनि संप्रतिष्ठते' इत्यादिश्रुतिभ्य आकाशशब्द: पर-
आत्मेति निश्चीयते ; 'दहरोऽस्मिन्नन्तराकाश: ' इति प्रस्तुत्य
तस्मिन्नेव आत्मशब्दप्रयोगाश्च; प्रकृत एव पर आत्मा ।
तस्मात् युक्तम् ' एवमेवास्मादात्मन:' इति परमात्मन एव
सृष्टिरिति संसारिण: सृष्टिस्थितिसंहारज्ञानसामर्थ्यां भावं
च अवोचाम । अत्र च 'आत्मेत्येवोपासीत ' ' आत्मानमे
वावेदहं ब्रह्मास्मि -' इति ब्रह्मविद्या प्रस्तुता ;
विषयं च ब्रह्मविज्ञानमिति ; ' ब्रह्म ते ब्रवाणि' इति 'ब्रह्म
ज्ञपयिष्यामि' इति प्रारब्धम् । तत्र इदानीम् असंसारि
ब्रह्म•जगतः कारणम् अशनायाद्यतीतं नित्यशुद्धबुद्धमुक्तस्व-
भावम् ; तद्विपरीतश्च संसारी; तस्मात् अहं ब्रह्मास्मीति न
गृह्णीयात् ; परं हि देवमीशानं निकृष्टः संसार्यात्मत्वेन स्मरन्
कथं न दोषभाक्स्यात्; तस्मात् न अहं ब्रह्मास्मीति युक्तम् ।
तस्मात्पुष्पोदकाञ्जलिस्तु तिनमस्कारबल्युपहारस्वाध्यायध्यान-
योगादिभिः आरिराधयिषेत ; आराधनेन विदित्वा सर्वेशितृ
ब्रह्म भवति ; न पुनरसंसारि ब्रह्म संसार्यात्मत्वेन चिन्तयेत् -
अग्निमिव शीतत्वेन आकाशमिव मूर्तिमत्त्वेन । ब्रह्मात्मत्व-
प्रतिपादकमपि शास्त्रम् अर्थवादो भविष्यति । सर्वतर्कशास्त्र -