2026-05-06 06:30:10 by ambuda-bot
This page has not been fully proofread.
-२५२
बृहदारण्यकोपनिषद्भाष्ये
[ ब्रा. १.
starकनामेव 'न वाचं विजिज्ञासीत वक्तारं विद्यात् '
इत्यादिना वागादिकरणैर्व्यावृत्तस्य कर्तुरेव वेदितव्यतां दर्श-
यति । अवस्थान्तरविशिष्टोऽसंसारीति चेत् — अथापि
स्यात्, यो जागरिते शब्दादिभुक् विज्ञानमयः, स एव
सुषुप्ताख्य मवस्थान्तरं गतः असंसारी परः प्रशासिता अन्यः
स्यादिति चेत् न, अदृष्टत्वात् । न ह्येवंधर्मकः पदार्थों
दृष्टंः अन्यत्र वैनाशिक सिद्धान्तात् । न हि लोके गौ:
तिष्ठन् गच्छन्वा गौर्भवति, शयानस्तु अश्वादिजात्यन्तर-
मिति । न्यायाच्च — यद्धर्मको यः पदार्थः प्रमाणेनावगतो
भवति, स देशकालावस्थान्तरेष्वपि तद्धर्मक एव भवति ; स
चेत् तद्धर्मकत्वं व्यभिचरति, सर्वः प्रमाणव्यवहारो लुप्येत ।
तथा च न्यायविदः सांख्यमीमांसकादयः असंसारिण:
अभाव युक्तिशतैः प्रतिपादयन्ति । संसारिणोऽपि जगदुत्पत्ति-
स्थितिलयक्रियाकर्तृत्वविज्ञानस्याभावात् अयुक्तमिति चेत्--
यन महता प्रपञ्चेन स्थापितं भवता, शब्दादिभुक् संसार्येव
अवस्थान्तरविशिष्टो जगत इह कर्तेति तदसत् ; यतो
जगदुत्पत्तिस्थितिलयक्रियाकर्तृत्वविज्ञानशक्तिसाधनाभावः स-
र्वलोकप्रत्यक्षः संसारिण: ; स कथम् अस्मदादिः संसारी
मनसापि चिन्तयितुमशक्यं पृथिव्यादिविन्यासविशिष्टं जगत्