Proofing

This page has not been fully proofread.

क. २०.]
 
द्वितीयोऽध्यायः ।
 
'
 
२५१
 
'ब्रह्म ज्ञपयिष्यामि' इति प्रतिज्ञाय, सुप्तं पुरुषं पाणिपेषं
बोधयित्वा तं शब्दादिभोक्तृत्वविशिष्टं दर्शयित्वा तस्यैव
स्वप्नद्वारेण सुषुप्त्याख्यमवस्थान्तरमुन्नीय, तस्मादेव आत्मन:
सुषुप्त्यवस्थाविशिष्टात् अग्निविस्फुलिङ्गोर्णनाभिदृष्टान्ताभ्याम्
उत्पत्ति दर्शयति श्रुतिः - ' एवमेवास्मात् ' इत्यादिना ; न चा-
न्यो जगदुत्पत्तिकारणमन्तराले श्रुतोऽस्ति ; विज्ञानमयस्यैव
हि प्रकरणम् । समानप्रकरणे च श्रुत्यन्तरे कौषीतकिनाम्
आदित्यादिपुरुषान्प्रस्तुत्य स होवाच यो वै बालाक एतेषां
पुरुषाणां कर्ता यस्य चैतत्कर्म स वै वेदितव्यः' इति
प्रबुद्धस्यैव विज्ञानमयस्य वेदितव्यतां दर्शयति, नार्थान्त-
रस्य । तथा च 'आत्मनस्तु कामाय सर्व प्रियं भवति'
इत्युक्त्वा, य एव आत्मा प्रिय: प्रसिद्ध: तस्यैव द्र-
ष्टव्य श्रोतव्यमन्तव्यनिदिध्यासितव्यतां दर्शयति । तथा
च विद्योपन्यास काले ' आत्मेत्येवोपासीत ' ' तदेतत्प्रेयः
पुत्रात्प्रेयो वित्तात्' ' तदात्मानमेवा वेदहं ब्रह्मास्मि -' इत्ये-
वमादिवाक्यानामानुलोम्यं स्यात् पराभावे । वक्ष्यति
च- 'आत्मानं चेद्विजानीयादयमस्मीति पूरुषः' इति ।
सर्ववेदान्तेषु च प्रत्यगात्मवेद्यतैव प्रदर्श्यते - अहमिति, न
बहिर्वेद्यता शब्दादिवत् प्रदर्श्यते असौ ब्रह्मेति । तथा कौ-