Proofing

This page has not been fully proofread.


 
आप्यायन्तु ममाङ्गानि वा-
 
क्प्राणश्चक्षुः श्रोत्रमथो बल-
 
मिन्द्रियाणि च सर्वाणि ।
 
सर्वं ब्रह्मौपनिषदं माहं ब्रह्म
 
निराकुर्यां मा मा ब्रह्म नि-
 
राकरोदनिराकरणमस्त्वनि-
 
राकरणं मेऽस्तु । तदात्मनि
 
निरते य उपनिषत्सु धर्मास्ते
 
मयि सन्तु ते मयि सन्तु ॥
 
ॐ शान्तिः शान्तिः शान्तिः ॥
 
788