Proofing

This page has not been fully proofread.

१५.]
 
अष्टमोऽध्यायः ।
 
५५३
 
पीडा स्यादित्यत आह - अन्यत्र तीर्थेभ्य: । तीर्थं नाम शा-
खानुज्ञाविषयः, ततोऽन्यत्रेत्यर्थः । सर्वाश्रमिणां च एतत्समा-
नम् । तीर्थेभ्योऽन्यत्र अहिंसैवेत्यन्ये वर्णयन्ति । कुटुम्बे एवै-
तत्सर्वं कुर्वन् स खल्वधिकृतः, यावदायुषं यावज्जीवम् एवं
 
'
 
'
 
यथोक्तेन प्रकारेणैव वर्तयन् ब्रह्मलोकमभिसंपद्यते देहान्ते ।
न च पुनरावर्तते शरीरग्रहणाय पुनरावृत्तेः प्राप्ताया: प्रति-
षेधात् । अचिरादिना मार्गेण कार्यब्रह्मलोकमभिसंपद्य याव
द्ब्रह्मलोकस्थितिः तावत्तत्रैव तिष्ठति प्राततो नावर्तत इत्यर्थः ।
द्विरभ्यास: उपनिषद्विद्यापरिसमार्थः ॥
 
इति पञ्चदशखण्डभाष्यम् ॥
 
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्द भगव-
 
त्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ
 
छान्दोग्योपनिषद्भाष्यं संपूर्णम् ॥
 
-