2026-05-06 06:22:02 by ambuda-bot
This page has not been fully proofread.
५५२
छान्दोग्योपनिषद्भाष्ये
[ख.
वनार्थ इति प्राप्ते, तदानर्थक्यप्राप्तिपरिजिहीर्षया इदं कर्मणो
विद्वद्भिरनुष्ठीयमानस्य विशिष्टफलवत्त्वेन अर्थवत्त्वमुच्यते—
आचार्यकुलाद्वेदमधीत्य सहार्थतः अध्ययनं कृत्वा यथाविधानं
यथास्मृत्युक्तैर्नियमैर्युक्तः सन् इत्यर्थः । सर्वस्यापि विधेः
स्मृत्युक्तस्य उपकुर्वाणकं प्रति कर्तव्यत्वे गुरुशुश्रूषाया: प्राधा-
न्यप्रदर्शनार्थमाह – गुरोः कर्म यत्कर्तव्यं तत्कृत्वा कर्मशू-
न्यो योऽतिशिष्टः कालः तेन कालेन वेदमधीत्येत्यर्थः । एवं
हि नियमवता अधीतो वेदः कर्मज्ञानफलप्राप्तये भवति, ना-
न्यथेत्यभिप्रायः । अभिसमावृत्य धर्मजिज्ञासां समापयि-
त्वा गुरुकुलान्निवृत्य न्यायतो दारानाहृत्य कुटुम्बे स्थित्वा
गार्हस्थ्ये विहिते कर्मणि तिष्ठन् इत्यर्थः । तत्रापि गार्हस्थ्य-
विहितानां कर्मणां स्वाध्यायस्य प्राधान्यप्रदर्शनार्थमुच्यते-
शुचौ विविक्ते अमेध्यादिरहिते देशे यथावदासीनः स्वाध्याय-
मधीयानः नैत्यकमधिकं च यथाशक्ति ऋगाद्यभ्यासं च
कुर्वन् धार्मिकान्पुत्राशिष्यांश्च धर्मयुक्तान्विदधत् धार्मिक-
त्वेन तान्नियमयन् आत्मनि स्वहृदये हार्दे ब्रह्मणि सर्वेन्द्र-
याणि संप्रतिष्ठाप्य उपसंहृत्य इन्द्रियग्रहणात्कर्माणि च संन्यस्थ
अहिंसन् हिंसां परपीडामकुर्वन् सर्वभूतानि स्थावरजङ्गमानि
भूतान्यपीडयन् इत्यर्थः । भिक्षानिमित्तमटनादिनापि पर-