Proofing

This page has not been fully proofread.

पञ्चदशः खण्डः ॥
 
तद्वैतद्ब्रह्मा प्रजापतय उवाच प्रजाप-
तिर्मनवे मनुः प्रजाभ्य आचार्यकुलाद्वेद-
मधीत्य यथाविधानं गुरोः कर्मातिशेषे-
 
णाभिसमावृत्य कुटुम्बे शुचौ देशे खा-
 
ध्यायमधीयानो धार्मिकान्विदधदात्मनि
 
सर्वेन्द्रियाणि संप्रतिष्ठाप्याहिप्सन्सर्व-
 
भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तय-
न्यावदायुषं ब्रह्मलोकमभिसंपद्यते न च
पुनरावर्तते न च पुनरावर्तते ॥ १ ॥
इति पञ्चदशः खण्डः ।
 
तद्धैतत् आत्मज्ञानं सोपकरणम् 'ओमित्येतदक्षरम्'
इत्याद्यैः सहोपासनैः तद्वाचकेन ग्रन्थेन अष्टाध्यायीलक्षणेन
सह ब्रह्मा हिरण्यगर्भः परमेश्वरो वा तद्वारेण प्रजापतये
कश्यपाय उवाच ;
असावपि मनवे स्वपुत्राय; मनुः प्रजा-
भ्यः इत्येवं श्रुत्यर्थ संप्रदायपरम्परयागतम् उपनिषद्विज्ञानम्
अद्यापि विद्वत्सु अवगम्यते । यथेह षष्ठाद्यध्यायत्रये प्रका-
शिता आत्मविद्या सफला अवगम्यते, तथा कर्मणां न क-