Proofing

This page has not been fully proofread.

५५०
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
इदमेव मैत्रेयीब्राह्मणेनोक्तम् ; चिन्मात्रानुगमात्सर्वत्र चित्स्वरू-
पत्तैवेति गम्यते एकवाक्यता । कथं तदवगम्यत इति, आह
 
-
 
स आत्मा । आत्मा हि नाम सर्वजन्तूनां प्रत्यक्चेतनः
स्वसंवेद्यः प्रसिद्ध: तेनैव स्वरूपेणोन्नीय अशरीरो व्योमवत्स-
 
i
 
वंगत आत्मा ब्रह्मेत्यवगन्तव्यम् । तच्च आत्मा ब्रह्म अमृतम्
अमरणधर्मा । अत ऊर्ध्वं मन्त्रः । प्रजापतिः चतुर्मुखः
तस्य सभां वेश्म प्रभुविमितं वेश्म प्रपद्ये गच्छेयम् । किंच
यशोऽहं यशो नाम आत्मा अहं भवामि ब्राह्मणानाम् । ब्रा-
झणा एव हि विशेषतस्तमुपासते ततस्तेषां यशो भवामि ।
तथा राज्ञां विशां च । तेऽप्यधिकृता एवेति तेषामप्यात्मा
भवामि । तद्यशोऽहमनुप्रापत्सि अनुप्राप्तुमिच्छामि । स ह
अहं यशसामात्मनां देहेन्द्रियमनोबुद्धिलक्षणानामात्मा ।
किमर्थमहमेवं प्रपद्य इति उच्यते - श्येतं वर्णतः पक्क-
बदरसमं रोहितम् । तथा अदत्कं दन्तरहितमप्यदत्कं भक्ष-
य़ितृ स्त्रीव्यञ्जनं तत्सेविनां तेजोबलवीर्यविज्ञानधर्माणाम् अप-
हन्तृ विनाशयित्रित्येतत् । यदेवंलक्षणं श्येतं हिन्दु पिच्छलं.
तन्मा अभिगां मा अभिगच्छेयम् । द्विर्वचनमत्यन्तानर्थहे-
तुत्वप्रदर्शनार्थम् ॥
 
'
 
इति चतुर्दशखण्डभाष्यम् ॥