Proofing

This page has not been fully proofread.

चतुर्दशः खण्डः ॥
 
आकाशो वै नाम नामरूपयोर्निर्वहिता
ते यदन्तरा तद्ब्रह्म तदमृतः स आत्मा
प्रजापतेः सभां वेश्म प्रपद्ये यशोऽहं
भवामि ब्राह्मणानां यशो राज्ञां यशो
विशां यशोऽहमनुप्रापत्सि स हाहं यश-
सां यशः श्येतमदत्कमदत्कः श्येतं
लिन्दु माभिगां लिन्दु माभिगाम् ॥ १ ॥
इति चतुर्दशः खण्डः ॥
 
आकाशो वा इत्यादि ब्रह्मणो लक्षणनिर्देशार्थम् आध्या-
नाय । आकाशो वै नाम श्रुतिषु प्रसिद्ध आत्मा । आकाश
इव अशरीरत्वात्सूक्ष्मत्वाच्च । स च आकाश: नामरूपयोः
स्वात्मस्थयोर्जगद्वीजभूतयोः सलिलस्येव फेनस्थानीययोः नि-
हिता निर्वोढा व्याकर्ता । ते नामरूपे यदन्तरा यस्य ब्र-
ह्मणो अन्तरा मध्ये वर्तेते, तयोर्वा नामरूपयोरन्तरा मध्ये
यन्नामरूपाभ्यामस्पृष्टं यदित्येतत्, तद्ब्रह्म नामरूपविलक्षणं
नामरूपाभ्यामस्पृष्टं तथापि तयोर्निर्वोदृ एवंलक्षणं ब्रह्मेत्यर्थः ।