Proofing

This page has not been fully proofread.

५४८
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
प्रपद्ये इति, उच्यते – अश्व इव स्वानि लोमानि विधूय
कम्पनेन श्रमं पांस्वादि च रोमतः अपनीय यथा निर्मलो
भवति, एवं हार्दब्रह्मज्ञानेन विधूयं पापं धर्माधर्माख्यं चन्द्र
इव च राहुप्रस्त: तस्माद्राहोर्मुखात्प्रमुच्य भास्वरो भवति
यथा— एवं धूत्वा प्रहाय शरीरं सर्वानर्थाश्रयम् इहैव ध्यानेन
कृतात्मा कृतकृत्यः सन् अकृतं नित्यं ब्रह्मलोकम् अभि-
संभवामीति । द्विर्वचनं मन्त्र समात्यर्थम् ॥
 
इति त्रयोदशखण्डभाष्यम् ॥
 
i