2026-05-06 06:21:59 by ambuda-bot
This page has not been fully proofread.
त्रयोदशः खण्डः ॥
श्यामाच्छबलं प्रपद्ये शबलाच्छ्थामं
प्रपद्येऽश्व इव रोमाणि विधूय पापं चन्द्र
इव राहोर्मुखात्प्रमुच्य धूत्वा शरीरमकृतं
कृतात्मा ब्रह्मलोकमभिसंभवामीत्यभि-
संभवामीति ॥ १ ॥
इति त्रयोदशः खण्डः ॥
श्यामात् शबलं प्रपद्ये इत्यादिमन्त्रान्नायः पावन: जपा-
र्थश्व ध्यानार्थो वा । श्यामः गम्भीरो वर्ण: श्याम इव
श्याम: हार्दं ब्रह्म अत्यन्तदुरवगाह्यत्वात् तत् हार्दं ब्रह्म
ज्ञात्वा ध्यानेन तस्माच्छयामात् शवलं शबल इव शबल:
अरण्याद्यनेककाममिश्रत्वाद्ब्रह्मलोकख शाबल्यं तं ब्रह्मलोकं
शबलं प्रपद्ये मनसा शरीरपाताद्वा ऊर्ध्वं गच्छेयम् । यस्मा-
दहं शबलाद्ब्रह्मलोकात् नामरूपव्याकरणाय श्यामं प्रपद्ये
हार्दभावं प्रपन्नोऽस्मीत्यभिप्रायः । अतः तमेव प्रकृतिस्वरू-
पमात्मानं शबलं प्रपद्य इत्यर्थः । कथं शबलं ब्रह्मलोकं