Proofing

This page has not been fully proofread.

५४६
 
छान्दोग्योपनिषद्भाष्ये
 
. [सं.
 
ज्ञत्वाच्च संभवतीति प्राप्ते, इदमुच्यते —स सर्वोश्च लोका-
नाप्नोति सर्वोश्च कामान् इदानींतनोऽपि । कोऽसौ ? इन्द्रा-
दिवत् यः तमात्मानमनुविद्य विजानातीति ह सामान्येन
किल प्रजापतिरुवाच । अतः सर्वेषामात्मज्ञानं तत्फलप्रा-
प्तिश्च तुल्यैव भवतीत्यर्थः । द्विर्वचनं प्रकरणसमात्यर्थम् ॥
 
इति द्वादशखण्डभाष्यम् ॥