2026-05-06 06:21:58 by ambuda-bot
This page has not been fully proofread.
१२.]
अष्टमोऽध्यायः ।
५४५
व्याकृतदेहेन्द्रियमनोवियुक्तः सर्वात्मभावमापन्नः सन् एष
व्योमवद्विशुद्धः सर्वेश्वरो मनउपाधिः सन् एतेनैवेश्वरेण
मनसा एतान्कामान् सवितृप्रकाशवत् नित्यप्रततेन दर्शनेन
पश्यन् रमते । कान्कामानिति विशिनष्टि -- य एते ब्रह्म-
णि लोके हिरण्यनिधिवत् बाह्यविषयासङ्गानृतेनापिहिताः
संकल्पमात्तलभ्याः तानित्यर्थः ॥
I
तं वा एतं देवा आत्मानमुपासते त-
स्मात्तेषाँ सर्वे च लोका आत्ताः सर्वे च
कामाः स सर्वाश्च लोकानाप्नोति सर्वाँ-
श्च कामान्यस्तमात्मानमनुविद्य विजाना-
तीति ह प्रजापतिरुवाच प्रजापतिरुवाच ॥
इति द्वादशः खण्डः ॥
यस्मादेष इन्द्राय प्रजापतिनोक्त आत्मा, तस्मात् ततः
श्रुत्वा तमात्मानमद्यत्वेऽपि देवा उपासते । तदुपासनाच्च
तेषां सर्वे च लोका आत्ताः प्राप्ताः सर्वे च कामाः ।
यदर्थे हि इन्द्रः एकशतं वर्षाणि प्रजापतौ ब्रह्मचर्यमुवास,
तत्फलं प्राप्तं देवैरित्यभिप्रायः । तद्युक्तं देवानां महाभा-
ग्यत्वात्, न त्विदानीं मनुष्याणामल्पजीवितत्वान्मन्दतरप्र-