Proofing

This page has not been fully proofread.

५४४
 
छान्दोग्योपनिषद्भाष्ये
 
अथ यो वेदेदं मन्वानीति स आत्मा
मनोऽस्य दैवं चक्षुः स वा एष एतेन दै-
वेन चक्षुषा मनसैतान्कामान्पश्यन्त्रमते
य एते ब्रह्मलोके ॥ ५ ॥
 
[ख.
 
अथ यो वेद - इदं मन्वानीति मननव्यापारमिन्द्रियासं-
स्पृष्टं केवलं मन्वानीति वेद, स आत्मा, मननाय मनः ।
यो वेद स आत्मेत्येवं सर्वत्र प्रयोगात् वेदनमस्य स्वरूपमि -
त्यवगम्यते - यथा यः पुरस्तात्प्रकाशयति स आदित्यः, यो
दक्षिणतः यः पश्चात् उत्तरतो य ऊर्ध्वं प्रकाशयति स
आदित्यः - इत्युक्ते प्रकाशस्वरूपः स इति गम्यते । दर्शनादि-
क्रियानिर्वृत्त्यर्थानि तु चक्षुरादिकरणानि । इदं च अस्य
आत्मनः सामर्थ्यादवगम्यते— आत्मन: सत्तामात्र एव
ज्ञानकर्तृत्वम्, न तु व्यापृततया — यथा सवितुः सत्ता-
मात्र एव प्रकाशनकर्तृत्वम्, न तु व्यापृततयेति - तद्वत् ।
मनोऽस्य आत्मनो दैवमप्राकृतम् इतरेन्द्रियैरसाधारणं चक्षुः
चष्टे पश्यत्यनेनेति चक्षुः । वर्तमानकालविषयाणि च इन्द्रि -
याणि अतो अदैवानि तानि । मनस्तु त्रिकालविषयोपल-
व्धिकरणं मृदितदोषं च सूक्ष्मव्यवहितादिसर्वोपलब्धिकरणं
च इति दैवं चक्षुरुच्यते । स वै मुक्त: स्वरूपापन्नः अवि-