Proofing

This page has not been fully proofread.

१२:]
 
अष्टमोऽध्यायः ।
 
५४३
 
आत्माभिव्याहाराय बागथ यो वेदेद"
श्रृणवानीति स आत्मा श्रवणाय श्रो
त्रम् ॥ ४ ॥
 
अथ यत्र कृष्णतारोपलक्षितम् आकाशं देहच्छिद्रम्
अनुविषण्णम् अनुषक्तम् अनुगतम्, तत्र स प्रकृत: अशरीर
आत्मा चाक्षुषः चक्षुषि भव इति चाक्षुषः तस्य दर्शनाय रू-
पोपलब्धये चक्षुः करणम् ; यस्य तत् देहादिभिः संहतत्वात्
परस्य द्रष्टुरर्थे, सोऽत्र चक्षुषि दर्शनेन लिङ्गेन दृश्यते पर:
अशरीरोऽसंहत: । ' अक्षिणि दृश्यते' इति प्रजापतिनोक्तं स-
र्वेन्द्रियद्वारोपलक्षणार्थम्; सर्वविषयोपलब्धा हि स एवेंति ।
स्फुटोपलब्धिहेतुत्वात्तु 'अक्षिणि' इति विशेषवचनं सर्वश्रुतिषु ।
अहमदर्शमिति तत्सत्यं भवति' इति च श्रुतेः । अथापि यो ऽ-
स्मिन्देहे वेद; कथम् ? इदं सुगन्धि दुर्गन्धि वा जिघ्राणीति
अस्य गन्धं विजानीयामिति, स आत्मा, तस्य गन्धाय गन्ध-
विज्ञानाय घ्राणम् । अथ यो वेद इदं वचनम् अभिव्याह-
राणीति वदिष्यमीति, स आत्मा, अभिव्याहरणक्रियासिद्धये
करणं वागिन्द्रियम् । अथ यो वेद- इदं शृणवानीति, स
आत्मा, श्रवणाय श्रोत्रम् ॥
 
"