Proofing

This page has not been fully proofread.

५४२
 
छान्दोग्योपनिषद्भाष्ये
 
[ख.
 
सुषुप्ते तदुक्तम्, मुक्तस्यापि सर्वैकत्वात्समानो द्वितीयाभावः ।
'केन कं पश्येत्' इति च उक्तमेव । अशरीरस्वरूपोऽपहतपा-
प्मादिलक्षणः सन् कथमेष पुरुषोऽक्षिणि दृश्यत इत्युक्तः
प्रजापतिना ? तत्व यथा असावक्षिणि साक्षाद्दृश्यते तद्वक्त-
व्यमितीदमारभ्यते । तत्र को हेतुरक्षिणि दर्शने इति, आह—
स दृष्टान्तः यथा प्रयोग्यः, प्रयोग्यपरो वा स-शब्दः, प्रयु-
ज्यत इति प्रयोगः, अश्वो बलीवर्दो वा यथा लोके आच-
रत्यनेनेत्याचरण: रथ: अनो वा तस्मिन्नाचरणे युक्तः तदा-
कर्षणाय, एवमस्मिञ्छरीरे रथस्थानीये प्राणः पञ्चवृत्तिरि-
न्द्रियमनोबुद्धिसंयुक्तः प्रज्ञात्मा विज्ञानक्रियाशक्तिद्वय संमूर्छि-
तात्मा युक्तः स्वकर्मफलोपभोगनिमित्तं नियुक्त:, ' कस्मिन्नव-
हमुत्कान्ते उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रति-
ष्ठास्यामीति' ईश्वरेण राज्ञेव सर्वाधिकारी दर्शनश्रवणचे-
ष्टाव्यापारेऽधिकृतः । तस्यैव तु मात्रा एकदेशश्चक्षुरिन्द्रियं
रूपोपलब्धिद्वारभूतम् ॥
 
अथ यत्रैतदाकाशमनुविषण्णं चक्षुः
स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो
वेदेदं जिघ्राणीति स आत्मा गन्धाय घ्रा-
णमथ यो वेदेदमभिव्याहराणीति स