Proofing

This page has not been fully proofread.

१२.]
 
अष्टमोऽध्यायः ।
 
५४१
 
तन्न स्मरन् । तत्स्मरणे हि दुःखमेव स्यात्, दुःखात्मकत्वात्
तस्य । नन्वनुभूतं चेत् न स्मरेत् असर्वज्ञत्वं मुक्तस्य ; नैष
दोषः । येन मिध्याज्ञानादिना जनितम् तच्च मिथ्याज्ञानादि
विद्यया उच्छेदितम्, अतस्तन्नानुभूतमेवेति न तदस्मरणे सर्व-
ज्ञत्वहानि: 1 न हि उन्मत्तेन ग्रहगृहीतेन वा यदनुभूतं तदुन्मा-
दाद्यपगमेऽपि स्मर्तव्यं स्यात् ; तथेहापि संसारिभिरविद्या-
दोषवद्भिः यदनुभूयते तत्सर्वात्मानमशरीरं न स्पृशति, अवि-
द्यानिमित्ताभावात् । ये तु उच्छिन्नदोषैर्मृदितकषायै: मानसाः
सत्या: कामा अनृतापिधाना अनुभूयन्ते विद्याभिव्यङ्गथ-
त्वात्, त एव मुक्तेन सर्वात्मभूतेन संबध्यन्त इति आत्मज्ञान-
स्तुतये निर्दिश्यन्ते ; अतः साध्वेतद्विशिनष्टिय एते ब्रह्म-
लोके' इति । यत्र क्वचन भवन्तोऽपि ब्रह्मण्येव हि ते लोके
भवन्तीति सर्वात्मत्वाद्ब्रह्मण उच्यन्ते ॥
 
ननु कथमेकः सन् नान्यत्पश्यति नान्यच्छृणोति ना-
न्यद्विजानाति स भूमा कामांश्च ब्राह्मलौकिकान्पश्यत्रमते
इति च विरुद्धम्, यथा एको यस्मिन्नेव क्षणे पश्यति स
तस्मिन्नेव क्षणे न पश्यति च इति । नैष दोष:, श्रुत्यन्तरे
परिहृतत्वात् । द्रष्टुर्दृष्टेर विपरिलोपात्पश्यन्नेव भवति ;
द्रष्टुरन्यत्वेन कामानामभावान्न पश्यति च इति । यद्यपि
 
l