Proofing

This page has not been fully proofread.

५४०
 
छान्दोग्योपनिषद्भाष्ये
 
"
 
[ख.
 
जातो जीर्णो मरिष्ये- इत्येवंप्रकारं प्रजापतिनेव मघवान् यथो-
केन क्रमेण नासि त्वं देहेन्द्रियादिधर्मा तत्त्वमसीति प्रति-
बोधितः सन् स एष संप्रसादो जीवोऽस्माच्छरीरादाकाशा-
दिव वाय्वादयः समुत्थाय देहादिविलक्षणमात्मनो रूपम-
वगम्य देहात्मभावनां हित्वेत्येतत् स्वेन रूपेण सदात्मनै-
बाभिनिष्पद्यत इति व्याख्यातं पुरस्तात् । स येन स्वेन
रूपेण संप्रसादोऽभिनिष्पद्यते - प्राक्प्रतिबोधात् तद्भान्तिनि-
मित्तात्सर्पो भवति यथा रज्जुः, पश्चात्कृतप्रकाशा रज्ज्वात्म-
ना स्वेन रूपेणाभिनिष्पद्यते, एवं च स उत्तमपुरुषः उत्तम-
श्वासौ पुरुषश्चेत्युत्तमपुरुष: स एव उत्तमपुरुषः । अक्षिस्वप्नपु-
रुषौ व्यक्तौ अव्यक्तश्च सुषुप्तः समस्तः संप्रसन्नः अशरीरश्च
स्वेन रूपेणेति । एषामेव स्वेन रूपेणावस्थितः क्षराक्षरौ व्याकृ-
ताव्याकृतावपेक्ष्य उत्तमपुरुष: ; कृतनिर्वचनो हि अयं गीतासु ।
स: संप्रसादः स्वेन रूपेण तत्र स्वात्मनि स्वस्थतया सर्वात्मभूतः
पर्येति क्वचिदिन्द्राद्यात्मना जक्षत् हसन् भक्षयन् वा भक्ष्यान्
उच्चावचान् ईप्सितान् क्वचिन्मनोमात्रैः संकल्पादेव समुत्थितै-
ब्रह्मलौकिकैर्वा क्रीडन् स्त्र्यादिभिः रममाणश्च मनसैव, नो-
पजनम्, स्त्रीपुंसयोरन्योन्योपगमेन जायत इत्युपजनम् आ-
त्मभावेन वा आत्मसामीप्येन जायत इत्युपजनमिदं शरीरम्,