Proofing

This page has not been fully proofread.

१२.]
 
अष्टमोऽध्यायः ।
 
५३९
 
अविद्यावस्थायां शरीरात्मभावमेव आपन्नः, तानि च तथा-
भूतान्यमुष्मात् द्युलोकसंबन्धिन आकाशदेशात्समुत्तिष्ठन्ति
वर्षणादिप्रयोजनाभिनिर्वृत्तये । कथम् ? शिशिरापाये सावित्रं
परं ज्योतिः प्रकृष्टं प्रैष्मकमुपसंपद्य सावित्रमभितापं प्राप्ये-
त्यर्थः । आदित्याभितापेन पृथग्भावमापादिताः सन्तः स्वेन
स्वेन रूपेण पुरोवातादिवायुरूपेण स्तिमितभावं हित्वा अभ्र-
मपि भूमिपर्वतहस्त्यादिरूपेण विद्युदपि स्वेन ज्योतिर्लतादि-
चपलरूपेण स्तनयिनुरपि स्वेन गर्जिताशनिरूपेणेत्येवं प्रा-
डागमे स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते ॥
 
एवमेवैष संप्रसादोऽस्माच्छरीरात्समु-
त्थाय परं ज्योतिरुपसंपद्य खेन रूपेणा-
भिनिष्पद्यते स उत्तमपुरुषः स तत्र प-
येति जक्षत्क्रीडन्रममाणः स्त्रीभिर्वा या
नैर्वा ज्ञातिभिर्वा नोपजनः स्मरन्निद‍
शरीर स यथा प्रयोग्य आचरणे युक्त
एवमेवायमस्मिञ्छरीरे प्राणो युक्तः ॥ ३॥
 
यथा अयं दृष्टान्तो वाय्वादीनामाकाशादिसाम्यगमनवद-
विद्यया संसारावस्थायां शरीरसाम्यमापन्नः अहममुष्य पुत्रो
 
: