2026-05-06 06:21:52 by ambuda-bot
This page has not been fully proofread.
५३८
छान्दोग्योपनिषद्भाष्ये
[ख.
रोहप्रकारैरनिशं बम्भ्रमन्ति; किमन्ये क्षुद्रजन्तवो विवेक-
हीना: स्वभावत एव बहिर्विषयांपहृतचेतसः । तस्मादिदं
त्यक्तसर्वबाह्येषणै: अनन्यशरणैः परमहंसपरिव्राजकैः अंत्या-
श्रमिभिर्वेदान्तविज्ञानपरैरेव वेदनीयं पूज्यतमैः प्राजापत्यं
इमं संप्रदायमनुसरद्भिः उपनिबद्धं प्रकरणचतुष्टयेन ।
तथा अनुशासति अद्यापि ' त एव नान्ये' इति ॥
अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुर-
शरीराण्येतानि तद्यथैतान्यमुष्मादाका-
शात्समुत्थाय परं ज्योतिरुपसंपद्य स्वेन
रूपेणाभिनिष्पद्यन्ते ॥ २ ॥
तत्र अशरीरस्य संप्रसादस्य अविद्यया शरीरेणा विशेषतां
सशरीरतामेव संप्राप्तस्य शरीरात्समुत्थाय स्वेन रूपेण यथा
अभिनिष्पत्ति:, तथा वक्तव्येति दृष्टान्त उच्यते— अशरी-
रो वायुः अविद्यमानं शिरः पाण्यादिमच्छरीरमस्येत्यशरीरः ।
किं च अभ्रं विद्युत्स्तनयित्नुरित्येतानि च अशरीराणि । तत्
तत्रैवं सति वर्षादिप्रयोजनावसाने यथा, अमुष्मादिति
भूमिष्ठा श्रुतिः द्युलोकसंबन्धिनमाकाशदेशं व्यपदिशति, ए-
तानि यथोक्तान्याकाशसमानरूपतामापन्नानि स्वेन वाय्वादि-
रूपेणागृह्यमाणानि आकाशाख्यतां गतानि - यथा संप्रसादः
•