Proofing

This page has not been fully proofread.

१२.]
 
अष्टमोऽध्यायः ।
 
५३७
 
प्रियाप्रिययोरपहतिर्नास्तीति व्याख्यातम् । यच स्थित-
मप्रियवेत्तेवेति नाप्रियवेत्तैवेति सिद्धम् । एवं च सति सर्व-
पर्यायेषु ' एतदमृतमभयमेतद्ब्रह्म' इति प्रजापतेर्वचनम्, यदि
वा प्रजापतिच्छद्मरूपाया: श्रुतेर्वचनम्, सत्यमेव भवेत् । न
च तत्कुतर्कबुद्धया मृषा कर्तुं युक्तम्, ततो गुरुतरस्य प्रमा-
णान्तरस्यानुपपत्तेः । ननु प्रत्यक्षं दुःखाद्यप्रियवेत्तृत्वमव्यभि-
चार्यनुभूयत इति चेत्, न, जरादिरहितो जीर्णोऽहं जातो-
ऽहमायुष्मान्गौरः कृष्णो मृतः - इत्यादिप्रत्यक्षानुभववत्तदुपप-
त्तेः । सर्वमप्येतत्सत्यमिति चेत्, अस्त्येवैतदेवं दुरवगमम्,
येन देवराजोऽप्युदशरावादिदर्शिताविनाशयुक्तिरपि मुमो हैवात्र
'विनाशमेवापीतो भवति' इति । तथा विरोचनो महाप्राज्ञः
प्राजापत्योऽपि देहमात्रात्मदर्शनो बभूव । तथा इन्द्रस्य आत्म-
विनाशभयसागरे एव वैनाशिका न्यमज्जन् । तथा सांख्या
द्रष्टारं देहादिव्यतिरिक्तमवगम्यापि त्यक्तागमप्रमाणत्वात् मृ-
त्युविषये एव अन्यत्वदर्शने तस्थुः । तथा अन्ये काणादा-
दिदर्शनाः कषायरक्तमिव क्षारादिभिर्वखं नवभिरात्मगुणै-
र्युक्तमात्मद्रव्यं विशोधयितुं प्रवृत्ताः । तथा अन्ये कर्मिणो
बाह्यविषयापहृतचेतसः वेदप्रमाणा अपि परमार्थसत्यमात्मै-
कत्वं सविनाशमिव इन्द्रवन्मन्यमाना घटीयन्त्रवत् भारोहाव-
 
S. U. IV. 22