Proofing

This page has not been fully proofread.

५३.६
 
I
 
छान्दोग्योपनिषद्भाष्ये
 
:
 
[ख.
 
एकश्चात्मा स्वप्नबुद्धान्तयोर्महामत्स्यवदसङ्गः संचरतीति श्रु-
त्यन्तरे सिद्धम् । यच्चोक्तं संप्रसादः शरीरात्समुत्थाय य-
स्मिन्स्त्र्यादिभिः रममाणो भवति सोऽन्यः संप्रसादादधि-
करणनिर्दिष्ट उत्तमः पुरुष इति, तदप्यसत् । चतुर्थेऽपि
पर्याये 'एतं त्वेव ते' इति वचनात् । यदि ततोऽन्योऽभि-
प्रेतः स्यात् पूर्ववत् ' एतं त्वेव ते' इति न ब्रूयान्मृषा प्रजा-
पति: । किंचान्यत्, तेजोबन्नादीनां स्रष्टुः सतः स्वविका-
रदेहशुङ्गे प्रवेशं दर्शयित्वा प्रविष्टाय पुन: तत्वमसीत्युप-
देश: मृषा प्रसज्येत । तस्मिंस्त्वं स्त्र्यादिभिः रन्ता भवि-
व्यसीति युक्त उपदेशोऽभविष्यत् यदि संप्रसादादन्य उत्तमः
पुरुषो भवेत् । तथा भूनि . ' अहमेव ' इत्यादिश्य 'आत्मैवेदं
सर्वम्' इति नोपसमहरिष्यत्, यदि भूमा जीवादन्योऽभवि-
ष्यत्, 'नान्योऽतोऽस्ति द्रष्टा' इत्यादिश्रुत्यन्तराश्च । सर्व-
श्रुतिषु च परस्मिन्नात्मशब्दप्रयोगो नाभविष्यत् प्रत्यगात्मा
चेत्सर्वजन्तूनां पर आत्मा न भवेत् । तस्मादेक एव आत्मा
प्रकरणी सिद्धः ॥
 
न च आत्मन: संसारित्वम्, अविद्याध्यस्तत्वादात्मनि
संसारस्य । न हि रज्जुशुक्तिकागगनादिषु सर्परजतमलादीनि
मिथ्याज्ञानाध्यस्तानि तेषां भवन्तीति । एतेन सशरीरस्य