2026-05-06 06:21:52 by ambuda-bot
This page has not been fully proofread.
१२.]
अष्टमोऽध्यायः ।
५३५
दिष्ट इति ग्रहणस्याप्यपनयनकारणं वक्तव्यं स्यात् । स्वप्र-
सुषुप्तात्मग्रहणयोरपि तदपनयकारणं च स्वयं ब्रूयात् ।
न च उक्तम् । तेन मन्यामहे न अक्षिणि च्छायात्मा
प्रजापतिना उपदिष्टः । किं चान्यत्, अक्षिणि द्रष्टा चेत्
'
' दृश्यते ' इत्युपदिष्टः स्यात्, तत इदं युक्तम् । एतं त्वेव
ते' इत्युक्त्वा स्वप्नेऽपि द्रष्टुरेवोपदेशः । स्वप्ने न द्रष्टोपदिष्ट
इति चेत्, न,' अपि रोदितीव' ' अप्रियवेत्तेव' इत्युपदे-
शात् । न च द्रष्टुरन्य: कश्चित्स्वप्ने महीयमानश्चरति ।
' अत्रायं पुरुषः स्वयंज्योति : ' इति न्यायतः श्रुत्यन्तरे सि-
द्धत्वात् । यद्यपि स्वप्ने सधीर्भवति, तथापि न धीः
स्वप्नभोगोपलबिंध प्रति करणत्वं भजते
किं तर्हि,
पटचित्रवज्जाप्रद्वासनाश्रया दृश्यैव धीर्भवतीति न द्रष्टुः
स्वयंज्योतिष्वबाधः स्यात् । किंचान्यत्, जाग्रत्स्वप्नयोर्भू-
तानि च आत्मानं च जानाति — इमानि भूतान्ययमह-
मस्मीति । प्राप्तौ सत्यां प्रतिषेधो युक्तः स्यात्-नाह खल्व-
यमित्यादि । तथा चेतनस्यैव अविद्यानिमित्तयोः सशरी-
रत्वे सति प्रियाप्रिययोरपद्दतिर्नास्तीत्युक्त्वा तस्यैवाशरी-
.
.
रस्य सतो. विद्यायां सत्यां सशरीरत्वे प्राप्तयोः प्रतिषेधो
युक्तः ' अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत:' इति ।'