2026-05-06 06:21:51 by ambuda-bot
This page has not been fully proofread.
५३४
छान्दोग्योपनिषद्धाप्ये
[ख.
प्रजापतिना उक्तः, स्वप्नसुषुप्रयोश्च अन्य एव, न परो-
ऽपहतपाप्मत्वादिलक्षणः, विरोधात् इति केचिन्मन्यन्ते । छा-
याद्यात्मनां च उपदेशे प्रयोजनमाचक्षते । आदावेव उच्य-
माने किलं दुर्विज्ञेयत्वात्परस्य आत्मनः अत्यन्तबाह्यविषया-
सक्तचेतसः अत्यन्तसूक्ष्मवस्तुश्रवणे व्यामोहो मा भूदिति ।
यथा किल द्वितीयायां सूक्ष्मं चन्द्रं दिदर्शयिषुः वृक्षं कंचि-
प्रत्यक्षमादौ दर्शयति — पश्य अमुमेष चन्द्र इति, ततोऽन्यं
-
ततोऽप्यन्यं गिरिमूर्धानं च चन्द्रसमीपस्थम् - एष चन्द्र इति,
ततोऽसौ चन्द्रं पश्यति, एवमेतत् ' य एषोऽक्षिणि' इत्याद्युक्तं
प्रजापतिना त्रिभिः पर्यायैः, न पर इति । चतुर्थे तु पर्याये देहा-
न्मर्त्यत्समुत्थाय अशरीरतामापन्नो ज्योतिः स्वरूपम्। यस्मि
नुत्तमपुरुषे स्त्र्यादिभिर्जक्षत्क्रीडन्रममाणो भवति, स उत्तम:
पुरुष: पर उक्त इति च आहुः । सत्यम्, रमणीया तावदियं
व्याख्या श्रोतुम् । न तु अर्थोऽस्य प्रन्थस्य एवं संभव-
ति । कथम् ? 'अक्षिणि पुरुषो दृश्यते' इत्युपन्यस्य शिष्या-
भ्यां छायात्मनि गृहीते तयोस्तद्विपरीतग्रहणं मत्वा तदुपन-
याय उदशराबोपन्यास: ' किं पश्यथः ' इति च प्रश्नः साध्व-
लंकारोपदेशश्च अनर्थकः स्यात्, यदि छायात्मैव प्रजाप-
तिना 'अक्षिणि दृश्यते' इत्युपदिष्टः । किंच यदि स्वयमुप-