2026-05-06 06:21:50 by ambuda-bot
This page has not been fully proofread.
१२.]
'
अष्टमोऽध्यायः ।
५३३
कामाश्च सर्वे मत्तो अन्ये, अहमेषां स्वामीति । न त्वेतदिन्द्र-
स्य हितम् । हितं च इन्द्रस्य प्रजापतिना वक्तव्यम् । व्यो-
मवदशरीरात्मतया सर्वभूतलोक कामात्मत्वोपगमेन या प्रा-
प्तिः तद्धितमिन्द्राय वक्तव्यमिति प्रजापतिना अभिप्रेतम् ।
न तु राज्ञो राज्याप्तिवदन्यत्वेन । तत्रैवं सति कं
केन विजानीयादात्मैकत्वे इमानि भूतान्ययमहमस्मीति ।
नन्वस्मिन्पक्षे 'स्त्रीभिर्वा यानैर्वा' 'स यदि पितृलोक-
काम:' ' स एकधा भवति' इत्याद्यैश्वर्य श्रुतयोऽनुपपन्ना: ;
न, सर्वात्मनः सर्वफलसंबन्धोपपत्तेरविरोधात - मृद इव
सर्वघटकरककुण्डाद्याप्तिः । ननु सर्वात्मत्वे दुःखसंबन्धोऽपि
स्यादिति चेत्, न, दुःखस्याप्यात्मत्वोपगमादविरोधः । आ-
त्मन्यविद्या कल्पनानिमित्तानि दुःखानि - रज्ज्वामिव सर्पा-
दिकल्पनानिमित्तानि । सा च अविद्या अशरीरात्मैकत्वस्वरू-
पदर्शनेन दुःखनिमित्ता उच्छिन्नेति दुःखसंबन्धाशङ्का न सं-
भवति । शुद्धसत्त्वसंकल्पनिमित्तानां तु कामानाम् ईश्वरदेह-
संबन्धः सर्वभूतेषु मानसानाम् । पर एव सर्वसत्त्वोपाधि-
द्वारेण भोक्तेति सर्वाविद्याकृतसंव्यवहाराणां पर एव आत्मा
आस्पदं नान्योऽस्तीति वेदान्तसिद्धान्तः ॥
' य एषोऽक्षिणि पुरुषो दृश्यते ' इति च्छायापुरुष एव