2026-05-06 06:21:50 by ambuda-bot
This page has not been fully proofread.
५३२
छान्दोग्योपनिषद्भाष्ये
[ख.
अशरीरता तु स्वरूपमिति तत्र धर्माधर्मयोरसंभवात् तत्का-
भावो दूरत एवेत्यतो न प्रियाप्रिये स्पृशतः ॥
'
;
,
ननु यदि प्रियमप्यशरीरं न स्पृशतीति, यन्मघवतोक्तं
सुषुप्तस्थो विनाशमेवापीतो भवतीति, तदेवेहाप्यापन्नम् ।
नैष दोष:, धर्माधर्मकार्ययोः शरीरसंबन्धिनो: प्रिया-
प्रिययोः प्रतिषेधस्य विवक्षितत्वात् - अशरीरं न प्रिया-
प्रिये स्पृशत इति । आगमापायिनोर्हि स्पर्शशब्दो दृष्टः-
यथा शीतस्पर्श उष्णस्पर्श इति न त्वनेरुष्णप्रकाशयोः
स्वभावभूतयोरग्निना स्पर्श इति भवति तथा अग्नेः स-
वितुर्वा उष्णप्रकाशवत् स्वरूपभूतस्य आनन्दस्य प्रियस्यापि
नेह प्रतिषेधः, 'विज्ञानमानन्दं ब्रह्म' 'आनन्दो ब्रह्म' इत्या-
दिश्रुतिभ्यः । इहापि भूमैव सुखमित्युक्तत्वात् । ननु भून: प्रि-
यस्त्र एकत्वं असंवेद्यत्वात् स्वरूपेणैव वा नित्यसंवेद्यत्वात् नि-
विशेषतेति न इन्द्रस्य तदिष्टम्, 'नाह खल्वयं संप्रत्यात्मानं
जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो
भवति नाहमत्र भोग्यं पश्यामि' इत्युक्तत्वात् । तद्धि इन्द्रस्येष्ट-
म् यद्भूतानि च आत्मानं च जानाति, न च अप्रियं किंचि-
द्वेत्ति, स सर्वोश्च लोकानाप्नोति सर्वांश्च कामान् येन ज्ञानेन ।
सत्यमेतदिष्टमिन्द्रस्य - इमानि भूतानि मत्तोऽन्यानि, लोका: