Proofing

This page has not been fully proofread.

१२.]
 
अष्टमोऽध्यायः ।
 
५३१
 
रीरमस्य संप्रसादस्य त्रिस्थानतया गम्यमानस्य अमृतस्य
मरणादिदेहेन्द्रियमनोधर्मवर्जितस्येत्येतत्; अमृतस्येत्यनेनैव
अशरीरत्वे सिद्धे पुनरशरीरस्येति वचनं वाय्वादिवत् साव-
यवत्वमूर्तिमत्त्वे मा भूतामिति ; आत्मनो भोगाधिष्ठानम् ;
आत्मनो वा सत ईक्षितुः तेजोबन्नादिक्रमेण उत्पन्न-
मधिष्ठानम्; जीवरूपेण प्रविश्य सदेवाधितिष्ठत्यस्मिन्निति
वा अधिष्ठानम् । ग्रस्येदमीदृशं नित्यमेव मृत्युग्रस्तं धर्मा-
धर्मजनितत्वात्प्रियाप्रियवदधिष्ठानम्, तदधिष्ठितः तद्वान्
सशरीरो भवति । अशरीरस्वभावस्य आत्मनः तदेवाहं
शरीरं शरीरमेव च अहम् - इत्यविवेकादात्मभावः सशरीर-
त्वम् ; अत एव सशरीरः सन् आत्तः प्रस्तः प्रियाप्रिया-
भ्याम् । प्रसिद्धमेतत् । तस्य च न वै सशरीरस्य सतः
प्रियाप्रिययोः बाह्यविषयसंयोगवियोगनिमित्तयोः बाह्यविष-
यसंयोगवियोगौ ममेति मन्यमानस्य अपहतिः विनाश:
उच्छेद: संततिरूपयोर्नास्तीति । तं पुनर्देहाभिमानादशरीरस्व-
रूपविज्ञानेन निवर्तिताविवेकज्ञानमशरीरं सन्तं प्रियाप्रिये न
स्पृशत: । स्पृशि: प्रत्येकं संबध्यत इति प्रियं न स्पृशति
अप्रियं न स्पृशतीति वाक्यद्वयं भवति । 'न म्लेच्छाशुच्य-
धार्मिकैः सह संभाषेत ' इति यद्वत् । धर्माधर्मकार्ये हि ते ;
 
.