Proofing

This page has not been fully proofread.

द्वादशः खण्डः ॥
 
मघवन्मर्त्य वा इदँ शरीरमात्तं मृ-
त्युना तदस्यामृतस्याशरीरस्यात्मनोऽधि-
ष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां
न वै सशरीरस्य सतः प्रियाप्रिययोरपह-
तिरस्त्यशरीरं वाव सन्तं न प्रियाप्रिये
स्पृशतः ॥ १ ॥
 
मघवन् मर्त्ये वै मरणधर्मीदं शरीरम् । यन्मन्यसेऽक्ष्या-
धारादिलक्षण: संप्रसादलक्षण आत्मा मयोक्तो विनाशमे-
चापीतो भवतीति, शृणु तत्र कारणम् - यदिदं शरीरं वै
यत्पश्यसि तदेतत् मर्त्य विनाशि । तच आत्तं मृत्युना
प्रस्तं सततमेव । कदाचिदेव म्रियत इति मर्त्यमि-
त्युक्ते न तथा संत्रासो भवति, यथा प्रस्तमेव सदा
व्याप्तमेव मृत्युनेत्युक्ते — इति वैराग्यार्थे विशेष इत्युच्यते-
आत्तं मृत्युनेति । कथं नाम देहाभिमानतो विरक्तः सन्
निवर्तत इति । शरीरमित्यत्र सहेन्द्रियमनोभिरुच्यते । तच्छ-