2026-05-06 06:21:48 by ambuda-bot
This page has not been fully proofread.
११.]
अष्टमोऽध्यायः ।
५२९.
राणि पञ्च वर्षाण्युवास तान्येकशत सं-
पेदुरेतत्तद्यदाहुरेकशतः ह वै वर्षाणि
मघवान्प्रजापतौ ब्रह्मचर्यमुवास तस्मै
होवाच ॥ ३ ॥
इति एकादशः खण्डः ॥
पूर्ववदेवमेवेत्युक्त्वा आह-- यो मया उक्तः त्रिभिः प-
र्यायैः तमेवैतं नो एवान्यत्रैतस्मादात्मनः अन्यं कंचन, किं
तर्हि, एतमेव व्याख्यास्यामि । स्वल्पस्तु दोषस्तवावशिष्टः,
तत्क्षपणाय वस अपराणि अन्यानि पञ्च वर्षाणि - इत्युक्तः
सः तथा चकार । तस्मै मृदितकषायादिदोषाय स्थानत्रयदो-
संबन्धरहितमात्मनः स्वरूपम् अपहतपाप्मत्वादिलक्षणं मघ-
वते तस्मै ह उवाच । तान्येकशतं वर्षाणि संपेदुः संपन्नानि
बभूवुः । यदाहुर्लोके शिष्टाः -- एकशतं ह वै वर्षाणि
मघवान्प्रजापतौ ब्रह्मचर्यमुवास इति । तदेतद्वात्रिंशतमित्या-
दिना दर्शितमित्याख्यायिकात: अपसृत्य श्रुत्या उच्यते ।
एवं किल तदिन्द्रत्वादपि गुरुतरम् इन्द्रेणापि महता यत्नेन
एकोत्तरवर्षशतकृतायासेन प्राप्तमात्मज्ञानम् । अतो नातः
परं पुरुषार्थान्तरमस्तीत्यात्मज्ञानं स्तौति ॥
.
इति एकादशखण्डभाष्यम् ॥