2026-05-06 06:21:48 by ambuda-bot
This page has not been fully proofread.
५२८
छान्दोग्योपनिषद्भाष्ये
मानि भूतानि विनाशमेवापीतो भवति
नाहमत्र भोग्यं पश्यामीति ॥ २ ॥
[ख.
पूर्ववदेतं त्वेव त इत्याद्युक्त्वा तद्यत्रैतत्सुप्त इत्यादि व्या-
ख्यातं वाक्यम् । अक्षिणि यो द्रष्टा स्वप्ने च महीयमानश्व -
रति स एषः सुप्तः समस्त: संप्रसन्नः स्वनं न विजानाति,
एष आत्मेति ह उवाच एतदमृतमभयमेतद्ब्रह्मेति स्वाभिप्रे-
तमेव । मघवान् तत्रापि दोषं ददर्श । कथम् ? नाह नैव
सुषुप्तस्थोऽप्यात्मा खल्वयं संप्रति सम्यगिदानीं च आत्मानं
जानाति नैवं जानाति । कथम् ? अयमहमस्मीति नो एवे-
मानि भूतानि चेति । यथा जाग्रति स्वप्ने वा । अतो
विनाशमेव विनाशमिवेति पूर्ववद्रष्टव्यम् । अपीत: अपि-
गतो भवति, विनष्ट इव भवतीत्यभिप्रायः । ज्ञाने हि सति
ज्ञातुः सद्भावोऽवगम्यते, न असति ज्ञाने । न च सुषुप्तस्य
ज्ञानं दृश्यते ; अतो विनष्ट इवेत्यभिप्रायः । न तु विनाशमेव
आत्मनो मन्यते अमृताभयवचनस्य प्रामाण्यमिच्छन् ।
एवमेवैष मघवन्निति होवाचैतं त्वेव ते
भूयोऽनुव्याख्यास्यामि नो एवान्यत्रैत-
स्माद्वसापराणि पञ्च वर्षाणीति स हाप-